|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
॥ श्रीः ॥
16.29. अध्यायः 029
Mahabharata - AshramaVasika Parva - Chapter Topics
युधिष्ठिरेण धृराष्ट्राभ्यनुज्ञया भ्रात्रादिभिः सह महर्षिणामाश्रमदर्शनम्॥ 1 ॥ शतयूपादिभिः सशिष्येण व्यासेन च युधिष्ठिरादिभिः परिवृतस्य धृतराष्ट्रस्याश्रमंप्रत्यागमनम्॥ 2 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
ततस्तु राजन्नेतेषामाश्रमे पुण्यकर्मणाम्।
शिवा नक्षत्रसम्पन्ना सा व्यतीयाय शर्वरी॥ 16-29-1(97923)
ततस्तत्र कथाश्चासंस्तेषां धर्मार्थलक्षणाः।
विचित्रपदसञ्चारा नानाश्रुतिभिरन्विताः॥ 16-29-2(97924)
पाण्डवास्त्वभितो मातुर्धरण्यां सुषुपुस्तदा।
उत्सृज्य तु महार्हाणि शयनानि नराधिप॥ 16-29-3(97925)
यदाहारोऽभकवद्राजा धृतराष्ट्रो महामनाः।
तदाहारा नृवींरास्ते न्यवसंस्तां निशां तदा॥ 16-29-4(97926)
व्यतीतायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियः।
भ्रातृभिः सहितो राजा ददर्शाश्रममण्डलम्॥ 16-29-5(97927)
सान्तः पुरपरीवारः सभृत्यः सपुरोहितः।
यथासुखं यथोद्देशं धृतराष्ट्राभ्यनुज्ञया॥ 16-29-6(97928)
ददर्श तत्र वेदीश्च सम्प्रज्वलितपावकाः।
कृताभिषेकैर्मुनिभिर्हुताग्निभिरुपस्थिताः॥ 16-29-7(97929)
वानेयपुष्पनिकरैराज्यधूमोद्गमैरपि।
ब्राह्मेण वपुषा युक्ता युक्ता मुनिगणस्य ताः॥ 16-29-8(97930)
मृगयूथैरनुद्विग्नैस्तत्रतत्र समाश्रितैः।
अशङ्कितैः पक्षिगणैः प्रगीतैरिव च प्रभो॥ 16-29-9(97931)
केकाभिर्नीलकण्ठानां दात्यूहानां च कूजितैः।
कोकिलानां कुहुरवैः सुखैः श्रुतिमनोहरैः॥ 16-29-10(97932)
प्राधीतद्विजघोषैश्च क्वचित्क्वचिदलङ्कृतम्।
फलमूलसमाहारैर्महद्भिश्चोपशोभितम्॥ 16-29-11(97933)
ततः स राजा प्रददौ तापसार्थमुपाहृतान्।
कलशान्काञ्चनान्राजंस्तथैवौदुम्बरानपि॥ 16-29-12(97934)
अजिनानि प्रवेणीश्च स्रुक्स्रुवं च महीपतिः।
कमण्डलूंश्चि स्थालीश्च पिठराणि च भारत॥ 16-29-13(97935)
भाजनानि च लौहानि पात्रीश्च विविधा नृप।
यद्यदिच्छति यावच्च यदन्यदपि काङ्क्षितम्॥ 16-29-14(97936)
एवं स राजा धर्मात्मा परीत्याश्रममण्डलम्।
वसु विश्राण्य तत्सर्वं पुनरायान्महीपतिः॥ 16-29-15(97937)
कृताह्निकं च राजानं धृतराष्ट्रं महीपतिम्।
ददर्शासीनमव्यग्रं गान्धारीसहितं तदा॥ 16-29-16(97938)
मातरं चाविदूरस्थां शिष्यवत्प्रणतां स्थिताम्।
कुन्तीं ददर्श धर्मात्मा शिष्टाचारसमन्विताम्॥ 16-29-17(97939)
स तमभ्यर्च्य राजानं नाम संश्राव्य चात्मनः।
निषीदेत्यभ्यनुज्ञातो वृस्यामुपविवेश ह॥ 16-29-18(97940)
भीमसेनादयश्चैव पाण्डव भरतर्षभ।
अभिवाद्योपसङ्गृह्य निषेदुः पार्थिवाज्ञया॥ 16-29-19(97941)
स तैः परिवृतो राजा शुशुभेऽतीव कौरवः।
बिभ्रद्ब्राह्मीं श्रियं दीप्तां देवैरिव बृहस्पतिः॥ 16-29-20(97942)
तथा तेषूपविष्टेषु समाजग्मुर्महर्षयः।
शतयूपप्रभृतयः कुरुक्षेत्रनिवासिनः॥ 16-29-21(97943)
व्यासश्च भगवान्विप्रो देवर्षिगणसेवितः।
वृतः शिष्यैर्महातेजा दर्शयामास पार्थिवम्॥ 16-29-22(97944)
ततः स राजा कौरव्यः कुन्तीपुत्रश्च धर्मराट्।
भीमसेनादयश्चैव प्रत्युत्थायाभ्यवादयन्॥ 16-29-23(97945)
समागतस्ततो व्यासः शतयूपादिभिर्वृतः।
धृतराष्ट्रं महीपालमास्यतामित्यभाषत॥ 16-29-24(97946)
वरं तु विष्टरं कौश्यं कृष्णाजिनकुशोत्तरम्।
प्रतिपेदे तदा व्यासस्तदर्थमुपकल्पितम्॥ 16-29-25(97947)
ते च सर्वे द्विजश्रेष्ठा विष्टरेषु समन्ततः।
द्वैपायनाभ्यनुज्ञाता निषेदुर्विपुलौजसः॥ ॥ 16-29-26(97948)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि एकोनत्रिंशोऽध्यायः॥ 29 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-29-8 मुनिगणस्य मुनिगणेन। ता वैदिक्यो लौकिक्यश्च॥ 7-29-9 मृगयूथादिभिरलङ्कृतमाश्रमम्॥ 7-29-12 औदुम्बरान् कलशान्॥ 7-29-13 प्रवेणीः कुथाः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|